मूलम्
अथ विज्ञानात्मवादः सौगतानां अनूद्यते॥
मूलम्
एष संप्रत्ययः कस्मात् सुखादन्योऽवसीयते। सुखमेवात्मनो रूपं तद्वान् शशविषाणवत्॥
मूलम्
अथोच्यते विना तेन सुखं कस्येति चेन्न तत्। न कस्यापीति वक्ष्यामः न तत्सप्रतियोगिकम्॥
मूलम्
यथा सूर्यस्य चन्द्रस्य संबन्ध्यन्वेषणा वृथा। तथा सुखादेरन्योऽस्ति तद्वानिति न शोभनम्॥
मूलम्
अथोपलब्धस्यावश्यं संबन्ध्यन्तरकल्पना। आत्मनः कल्पितस्यापि संबन्ध्यन्यः प्रसज्यते॥
मूलम्
अव्यवस्थेति विज्ञाने विरन्तुं तदिहार्हसि। अथान्यो नास्ति विज्ञानात् जानातीत्युच्यते च कः॥
मूलम्
जानातिशब्दो ज्ञानस्य कर्तारमभिधित्सति। शब्दोऽर्थवान् स कर्तव्यः इति विज्ञानवानसौ॥
मूलम्
बहवो नान्विह जनाः अस्त्यात्मेत्यादिवादिनः। सन्ति प्रत्यक्षवक्तारः न सिद्धिस्तावताऽऽत्मनः॥
मूलम्
जानातीति परोक्षोऽयं शब्दः किं कल्पयिष्यति।