मूलम्
अथ शाबरभाष्योक्तमात्मतत्वं विचिन्त्यते। यदेवचोपवर्षेण शारीरकनिरूपितम्॥
टीका
शा. भा. आत्मवादः[ ]
मूलम्
नैरात्म्येनात्र चाक्षिप्ताः सर्वा एवहि चोदनाः। वेदप्रमाणसिद्ध्यर्थमात्माऽत्र प्रतिपाद्यते॥
मूलम्
यजमानः स्वर्गलोकं याति यज्ञायुधीति वाक्। एतच्छरीरं यस्यासामात्मा तत्परतामियात्॥
मूलम्
परैरभिहितान् पूर्वमात्माहेतून्निरस्यचि। न चेदहंप्रत्यये स्युश्शिष्यास्सामान्यदृष्टयः॥
मूलम्
आह कोऽसावन्य आत्मा नैनं ह्युपलभामहे। एनं प्राणादिभिरुपलभामह इतीर्यते॥
मूलम्
प्राणापानोच्छ्वासनिमेषादिचेष्टितवांस्तु यः। शरीरे सोऽत्र यज्ञायुध्यादिशब्दैः विवक्षितः॥
मूलम्
शरीरगुणवैधर्म्यात् प्राणाद्याः न शरीरगाः। अयावद्द्रव्यभावित्वात् रूपाद्याः यावदाश्रयाः॥
मूलम्
एवं देहात्मवादोऽयं चार्वाकाणां विदूषितः।