मूलम्
तत्त्वज्ञानेन तेनास्य मिथ्याज्ञानेऽपबाधिते। रागद्वेषादयो दोषाः तन्मूलाः क्षयमाप्नुयुः॥
मूलम्
क्षीणदोषस्य नोदेत् प्रवृत्तिः पुण्यपापिका। तदभावान्न तत्कार्यं शरीराद्युपजायते॥
मूलम्
अशरीरश्च नैवात्मा स्पृश्यते दुःखडम्बरैः। अशेषदुःखोपरमस्त्वपवर्गौऽभिधीयते॥
मूलम्
स चेतनश्चिता योगात् तद्योगेन विना जडः। नार्थावभासादन्यद्धि चैतन्यं नाम विद्यते॥
मूलम्
अधिकांशो मोक्षहेतुजिज्ञासायां निरूपितः। आम्रेडनं हि विदुषां भवेदालस्यकारणम्॥