मूलम्
अथचाधुनिकन्यायाचार्यैर्योऽत्र प्रदर्शितः। निष्कर्षस्सोऽपिचात्रैव संक्षेपादवधार्यताम्॥
टीका
न्या. म.[429]
मूलम्
प्रत्यक्षादिप्रमाणैर्यो व्यवहारस्स चात्मना। विना नित्येन नेत्येवं ततस्तस्य प्रकल्पना॥
मूलम्
तत्र प्रत्यक्षमात्मानमौपवर्षाः प्रपेदिरे। अहंप्रत्ययगम्यत्वात् स्वयूथ्या अपि केचन॥
मूलम्
प्रत्यक्षत्वे कर्तृकर्मविरोधं केचिदूचिरे। लैङ्गिकत्वे कथं न स्यादात्मैवानुमिनोति हि॥
मूलम्
तत्रानुमानज्ञानस्य यथाऽऽत्मा याति कर्मताम्। तथाऽहंप्रत्ययस्यैव प्रत्यक्षस्यापि गच्छतु॥
मूलम्
देहादिव्यतिरिक्तश्च यथा लिङ्गेन गम्यते। तथाऽहंप्रत्ययेनापि गम्यतां तद्विलक्षणः॥
मूलम्
ज्ञानेच्छासुखदुःखादि किलेदं लिङ्गमात्मनः। एकाश्रयतया ज्ञातमनुसन्धातृबोधकम्॥
मूलम्
ज्ञाते तत्राफलं लिङ्गं अज्ञाते तु न लिङ्गता। तस्मात्प्रत्यक्ष एवात्मा वरमभ्युपगम्यताम्॥
मूलम्
वृद्धागमानुसारेण संविदालोकनेन वा। अथवाऽभिनिवेशेन किमनेन प्रयोजनम्॥
मूलम्
अनुमेयत्वमेवास्तु लिङ्गेनेच्छादिनाऽऽत्मनः। शास्त्रेष्वनेकहेतूक्तिः न दोषाय कथास्विव॥
मूलम्
नहि प्रत्यक्ष आत्मा किं त्वपरोक्ष इतीतरे। केवलं शब्दभेदेऽत्र तुच्छता वा प्रसज्यते॥
मूलम्
सुखदुःखादिभोक्तृत्वस्वभावो हेय एव सः। उपादेयस्तु भोगादिव्यवहारपराङ्मुखः॥