मूलम्
अथ चास्यैव सूत्रस्य तात्पर्यार्थोऽवधार्यताम्। प्रामाण्यं प्रत्यभिज्ञायाः नित्यत्वमपि चात्मनः॥
टीका
न्या. सू.[1-1-30]
मूलम्
इन्द्रियाण्यपि नाना स्युः विभिन्नविषयाण्यपि। तत्तद्ग्रहणलिङ्गानि ज्ञातु्स्तत्करणान्यपि॥
मूलम्
भेदश्च गुणगुण्यादेः द्रव्याधिकरणा गुणाः। चेतनाश्चाप्यनियतविषयास्स्युः तथैवच॥
मूलम्
स्थिराः स्युः विषयाश्चापि चक्षुरादेश्च नात्मता। एतादृशार्था बहवः तत्त्वटीकाप्रदर्शिताः॥