मूलम्
यद्दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति। न्यायाचार्यकृतं सूत्रं तद्भाष्यमिह वर्ण्यते॥
टीका
न्या. सू.[3-1-1]
मूलम्
दर्शनेन गृहीतोऽर्थः स्पर्शनेनापि गृह्यते। यमद्राक्षं चक्षुषा तं स्पर्शनेन स्पृशाम्यहम्॥
मूलम्
यं चास्पार्क्षं स्पर्शनेन तं पश्यामीह चक्षुषा। इत्येकविषयावेतौ प्रत्ययावेककर्तृकौ॥
मूलम्
प्रतिसंधानविषयौ नच संघातकर्तृकौ। तथैव प्रत्ययावेतौ नेन्द्रियेणैककर्तृकौ॥
मूलम्
तद्योऽयौ चक्षुषा चैव त्वचा चैकार्थलम्भुकः। अनन्यकर्तृकौ भिन्ननिमित्तौ प्रत्ययावपि॥
मूलम्
यश्चापि प्रतिसन्धत्ते समानविषयाविमौ। सोऽर्थान्तरतया सिद्धः आत्मेत्याहुर्नयोत्तराः॥