214 संशयः

मूलम्

अथ गौतमसूत्रेषु तद्भाष्ये चापि पाक्षिले। निर्णीतं यच्चात्मतत्त्वं क्रियते तस्य संग्रहः॥

मूलम्

क्रियाकरणयोः कर्त्रा संबन्धस्यानुकीर्तनम्। व्यपदेशस्स द्विविधः प्रथमोऽयं निशम्यताम्॥

मूलम्

प्रासादो ध्रियते स्तम्भैः वृक्षो मूलैश्च तिष्ठति। इत्यत्र समुदायस्यावयवेनानुकीर्तनम्॥

मूलम्

तथैवान्येन चान्यस्य़ व्यपदेशोऽपि दृश्यते। प्रपश्यति प्रदीपेन कुठारेण प्रवृश्चति॥

मूलम्

अत्रोस्ति व्यपदेशोऽयं यथा पश्यति चक्षुषा। मनसा च विजानाति बुद्ध्या मीमांसते पुनः॥

मूलम्

शरीरेण सुखं दुःखं तथाऽनुभवतीत्यपि। व्यपदेशस्योभयथा सिद्धेः तन्नावधार्यते॥

मूलम्

किमात्रावयवेन स्यात् संघातस्यानुकीर्तनम्। अथवाऽन्येन चान्यस्येत्येवं संशयसंभवे॥