मूलम्
सुखेच्छाद्वेषयत्नैश्च गुणैर्गुण्यनुमीयते॥
मूलम्
विषयेन्द्रियदेहादियोगं नार्हन्ति ते गुणाः। अयावद्द्रव्यभावित्वात् तथा प्रादेशिकत्वतः॥
मूलम्
अहंकारेणैकवाक्यभावाभावत्तथैवच। बाह्येन्द्रियाप्रत्यक्षत्वात् अतिरिक्ताश्रया हि ते॥
मूलम्
यथा पृथिव्यादिशब्दाः पृथिव्याद्यर्थगोचराः। तथाहंशब्द इत्यादिरिति भाष्यार्थसंग्रहः॥