मूलम्
कणादीयात्मचर्चायां यत्तु संगृह्य भाषितम्। सम्यक् प्रशस्तपादेन क्रियते तस्य संग्रहः॥
मूलम्
अप्रत्यक्षोऽपि सौक्ष्म्येण युक्त्याऽसावधिगम्यते। शब्दोपलब्ध्यनुमितश्रोत्रादि करणं पुनः॥
मूलम्
कर्तृप्रयोज्यं वास्यादि करणं सर्वसम्मतम्। प्रयोजकश्च श्रोत्रादेः करणस्यानुमीयते॥
मूलम्
मनश्शरीरेन्द्रियाणामज्ञत्वान्न प्रयोक्तृता। शरीरस्य न चैतन्यं भौतिकत्वाद्घटादिवत्॥
मूलम्
इन्द्रियाणां न चैतन्यं करणत्वेन कल्पनात्। क्वचिद्विनष्टेष्वेतेषु विषयासन्निधावपि॥
मूलम्
अनुस्मृतिः कस्य भवेत् प्रयोक्तर्यपिचासति। मनसश्च न चैतन्यं तस्यापि करणत्वतः॥
मूलम्
करणान्तरक्लृप्तौ च यौगपद्यं धियां भवेत्। परिशेषात्स्वकार्येण ज्ञानेनात्माऽधिगम्यते॥
मूलम्
प्रवृत्तिश्च निवृत्तिश्च शरीरसमवायिनी। हिताहिताप्राप्तिपरिहारयोग्ये क्रिये हि ते॥
मूलम्
ताभ्यां प्रयत्नवान् देहस्याधिष्ठाताऽनुमीयते। प्रयत्नवान् सारथिर्हि ज्ञायते रथकर्मणा॥
मूलम्
वायौ देहगृहीते तु विकृतं कर्म दृश्यते। तेन भस्त्राध्मायितेव सिद्ध्यत्यात्मेति कथ्यते॥
मूलम्
देहस्य वृद्धिसंभग्नक्षतसंरोहणादिभिः। गृहाध्यक्ष इवात्माऽपि देहाध्यक्षोऽनुमीयते॥
मूलम्
यदिष्टादानकरणसंबन्धस्य नियामकम्। मनसः कर्म तेनापि सिद्ध्यात्मा यथापुनः॥
मूलम्
गृहकोणोपलप्रेरयितृदारकवत् तथा। दारुयन्त्रप्रयोक्तेव निमेषोन्मेषकर्मणा॥
मूलम्
नायनालोचनात्पश्चाद्रसस्य स्मरणे सति। रसनं यद्विक्रियते तेनात्मोभयबुद्धिमान्॥
मूलम्
यथाऽनेकगवाक्षान्तर्गतप्रेक्षक इष्यते।