211 प्रकृतिविलक्षणः

मूलम्

तत्र युक्तिस्तु शास्त्रीया प्रयुक्ता तैः पुनर्यथा। अतिरिक्तोऽस्ति पुरुषः ह्यव्यक्तादेर्यतस्त्विमे॥

मूलम्

अव्यक्ताद्याः परार्थाः स्युः संघातत्वात् गृहादिवत्। परस्स्यात्संहतो देहो दर्शनादिति चेन्न तत्॥

मूलम्

तस्यापि संहतत्वेन स्यात्संघातान्तरार्थता। नच सत्यां व्यवस्थायामायुष्मत्यनवस्थितिः॥

मूलम्

स व्यापकपरार्थत्वव्यावृत्या चागुणो मतः। पुरुषोऽयमधिष्ठाता बुद्ध्यादेरणुत्वतः॥

मूलम्

भोक्ता च पुरुषस्सिद्ध्येत् बुद्ध्यादेर्भोक्त्रभावतः। पुमान्न कस्यचित्कर्ता किन्तु भोक्तैव केवलम्॥

टीका

न्या. र.[664]

मूलम्

इति सांख्यास्त्वाहुरिति न्यायरत्नाकरोदितम्। द्रष्टा वा पुरुषश्चेष्टः बुद्ध्यादेर्दृश्यभावतः॥

मूलम्

शास्त्राणां च महर्षीणामन्योषां दिव्यचक्षुषाम्। कैवल्यार्थं प्रवृत्तेश्च स्यात्पुमान् प्रकृतेः परः॥

मूलम्

दुःखात्मका हि बुद्ध्याद्याः स्वभावो दुरतिक्रमः। नियोगश्शक्यसंपादः पुरुषस्यातदात्मनः॥

मूलम्

तस्माद्योऽस्ति स आत्मेति सिद्धः सत्त्वविलक्षणः। सुखदुःखव्यवस्थातः नाना सर्गतश्च सः॥

मूलम्

शरीरभेदाद्भेदश्चेत्स्यात्पाण्यादिविभेदतः। मध्यस्थः केवलः साक्षी द्रष्टाऽकर्तेति निश्चितः॥

मूलम्

चिदभिव्यक्तिचित्सङ्गचिच्छायापत्तिलक्षणात्। संनिधेः बुद्धिरप्येषाऽचेतना चेतनायते॥

मूलम्

विमृश्य शास्त्रयुक्त्यैवं कूटस्थं ज्ञानलक्षणम्। साक्षात्कृत्वाऽन्यताख्यात्याऽनन्तं कैवल्यमश्नुते॥

मूलम्

इति कापिलसिद्धान्तसिद्धः पुरुष ईरितः। प्रमेयसंग्रहोक्तं यत्तदप्यत्रोपयुज्यताम्॥