210 पूरुषः

मूलम्

अथ कापिलसिद्धान्तरीत्याऽऽत्माऽत्र विचार्यते। विदितः सांख्यपुरुषः सोऽसौ पुष्करपर्णवत्॥

मूलम्

श्रुतिर्ह्यपौरुषेय्येषा कल्पादौ कपिलादिभिः। स्मर्यते चापि विद्वद्भिः सर्वा सुप्तप्रबुद्धवत्॥

मूलम्

तथा स्मृतीतिहासाद्यः प्रमाणं वेदमूलकाः। प्रकृतेः पुरुषस्यापि विवेकस्तौर्विशोध्यते॥

मूलम्

तच्छ्रुत्वा शास्त्रयुक्त्या च व्यवस्थाप्य ततः परम्। निरन्तरं दीर्घकालमादरेण च सेविताम्॥

मूलम्

साक्षात्काराच्च विज्ञानात् मुच्यते भावनामयात्। अभेदधीरुपादेयाऽन्येषामेषां तु भेदधीः॥