209 तत्स्वरूपम्

मूलम्

निर्धर्मका निराधारा निर्मूर्तिश्चित्तसंततिः। प्रतिक्षणं जायमाना दीपसन्तानसन्निमा॥

मूलम्

ज्वालाबु्द्बुदवद्वृत्तिः मातृकुक्षिप्रवेशभाक्। सा ततो विषयज्ञप्तिः चित्ताभिज्वलनात्मिक॥

मूलम्

कामक्रोधौ लोभमोहौ रागाद्वेषौ च सैव हि। रागौ द्वेषश्च मोहश्च यद्युत्क़टदशां गतः॥

मूलम्

कामः क्रोधो लोभ इति व्यवहारस्य गोचरः। देवासुरमनुष्याणां भेदोऽतो गुणभेदतः॥

मूलम्

आत्मा यद्यप्रतीत्य स्यात्क्लेशानां नैव संक्षयः। अतो नैरात्म्यसिद्धान्तः बौद्धानामिति निर्णयः॥

मूलम्

आत्मग्रहो महामोहः प्रथमं तन्निवृत्तितः। मम किं नाहमेवेति विरंस्यति ममग्रहः॥

मूलम्

तस्मादादावहंकारममकारप्रहाणतः। निर्वाणद्वारमेवैतत्सिद्धं नैरात्म्यदर्शनम्॥