मूलम्
अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा। ज्ञानमात्रेण सर्वोऽपि व्यवहारोऽवकल्पते॥
मूलम्
ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः। न वस्त्वन्तरमित्येव न ततोऽन्यप्रकल्पनम्॥
मूलम्
गुणवत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना। न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन॥
मूलम्
स्मृतिवत्परिहर्तव्यौ कृतनाशाकृतागमौ। तत्संतानोरसंक्रान्तया कुसुमे बीजरागवत्॥
मूलम्
यस्मिन्नेव हि संताने आहिता कर्मवासना। फलं तत्रैव बध्नाति कार्पासे रक्तता यथा॥
मूलम्
वर्षातपाभ्यां किं व्योम्नः चर्मण्यस्ति तयोः फलम्। चर्मोपमश्चेत्सोऽनित्य खतुल्यश्चेदसत्समः॥
टीका
न्या. र.[150]
मूलम्
बुद्धिजन्मनि पुंसश्च विकृतिर्यद्यनित्यता। अथाविकृतिरात्माऽयं प्रभातेति न युज्यते॥
मूलम्
अत्यन्तमलिनः कायः देही चात्यन्तनिर्मः। अभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते॥