207 चैतन्यम्

मूलम्

चैतन्यं यदि शक्तिः स्यात् शक्तिशक्तिमतोर्यदा। भेदस्तदा शक्तिनाम्ना तत्त्वान्तरपरिग्रहः॥

मूलम्

इति शङ्का नैव कार्या संघातश्शक्तिरिष्यते। ज्ञानं नाम पदार्थो यः स नास्त्येवेति तन्मतम्॥

टीका

प. म.[6 भ.]

मूलम्

ज्ञानस्योत्पादिका याऽस्ति सामग्री सर्वसम्मता। तयैव सर्वनिर्वाहात्किमन्तर्गडुनाऽमुना॥

मूलम्

देहधातुविशेषो वा विकासो वाऽस्य कश्चन। ज्ञानमित्येव वक्तव्यं परं धर्मिप्रकल्पनात्॥

मूलम्

हृदयस्थः पित्तभागः प्रकाश इति वैद्यकम्। एवमाद्यास्तु सर्वार्थसिद्धौ वादाः ह्यनूदिताः॥

मूलम्

स एव भूतचैतन्यवादिनः परमाशयः। अन्यथा तस्य चैतन्यं तस्यापीत्यनवस्थितिः॥

मूलम्

सुखदुःखेच्छादयोऽपि परिणामा हि भौतिकाः। संघाकवेद्यास्ते सर्वे न संज्ञा प्रेत्य विद्यते॥

मूलम्

भूतेभ्यश्च समुत्थाय तान्येवानुविनश्यति। इति हि ब्रह्मणं येयं प्रेते सेशय इत्यपि॥

मूलम्

नाचिकेतानुयोगश्च सिद्धान्तं द्रढयत्यमुम्। एष देहात्मसिद्धान्तः सुराचार्यप्रवर्तितः॥

मूलम्

चार्वाककृतभाष्यादिनिबनिधैः प्रचयं गतः। कामनीतिस्तेयशास्त्रप्रमुखं तस्य विस्तरः॥

मूलम्

शेषः सिद्धान्तसारांशः सूचितः प्रायशः पुरा। प्रमेयसंग्रहे सोऽपि वैशद्यायावधार्यताम्॥