मूलम्
अथ प्रस्तूयतेऽत्रात्मामीमांसा सर्वतोमुखी। यत्कृते सर्वमीमांसाः तीर्थकृद्भिः प्रवर्तिताः॥
मूलम्
तथाहि लौकायतिकाः परलोकापवादिनः। चैतन्यखचितात्कायान्नात्माऽन्योऽस्तीति मन्वते॥
मूलम्
भीष्मः खल्वपवर्गोऽयं भद्रं बह्वत्र लुप्यते। संसारो हि वरं यत्र सुखलेशः कियानपि॥
मूलम्
स्वर्गेण चिरसाध्येन मृतिव्यवहितेन किम्। अत्र भोजनशय्यादि सुखमेव त्रिविष्टयम्॥
मूलम्
चैतन्यं भौतिकी शक्तिः न तत्त्वान्तरमिष्यते। भूतसंघावस्थितिर्वा धीसामग्र्यथवा भवेत्॥
मूलम्
शरीरवृद्धौ तद्वृद्धिः तत्क्षये चापि तत्क्षयः। मूर्छा चैतन्यविकृतिः अभिघातादितो भवेत्॥
मूलम्
दृश्यते चेतना पट्वी ह्यन्नपानादितृप्तितः। ब्रह्मीघृतादिसंस्कारे स्यात्पटुप्रज्ञता तथा॥
मूलम्
चलन्ति दध्यवयवाः काले नातिदवीयसि। स्वेदादिनैव वर्षासु पूतरक्रिमिलक्षणाः॥
मूलम्
गौरोऽहमस्मि स्थूलोऽहं कृशोऽहमिति सम्मताः। व्यवहाराश्चानुभवाः भूतचैतन्यसाक्षिणः॥
मूलम्
अहं जानामिति मतिः शरीरमवलम्बते। इत्याहुरात्माऽप्रत्यक्षवादिनोऽपि हि तार्किकाः॥
मूलम्
मम पाणिर्भुजो वेति भिन्नत्वादुपपद्यते। शरीरं तु ममेत्येषा कल्पना राहुमूर्धवत्॥