205 अन्तःकरणविचारः

मूलम्

एकं मनोऽन्तःकरणं नैयायिकमते मतम्। द्विविधं भास्कराः प्राहुः त्रिविधं कापिला विदुः॥

टीका

भा. भा.[72]

मूलम्

चतुर्विधं केचिदाहुः तदुक्तिरवधार्यताम्। मनो बुद्धिरहंकारश्चितं करणमान्तरम्॥

मूलम्

संशयो निश्चयो गर्वः स्मरणं विषया इति। तत्र कापिलभिन्नास्तु वृत्तिभेदाद्भिदां विदुः॥

मूलम्

मनः स्मृत्यनुभूतिभ्यां द्विधा भास्करभाषितम्। श्रुतिश्च विविधा मानं सर्वेषामिह विद्यते॥

मूलम्

तदर्थनिर्णायकं च सूत्रं तात्पर्यभेदतः। व्याथख्यायते यदि तदा कः पक्षः श्रुतिसम्मतः॥

मूलम्

अप्राप्यकारिणी श्रोत्रचक्षुषी इति सौगताः। चक्षुर्मात्रं विदुर्जैनाः सर्वेऽन्ये प्राप्तिवादिनः॥

टीका

प्र. त.[48]

मूलम्

एवमिन्द्रियवृत्तान्ते विकल्पोऽत्र निरूपितः। प्रायस्सर्वार्थसिद्ध्यादौ विस्तरोस्यावलोक्यते॥