मूलम्
अथौपनिषदानामप्येष सिद्धान्तसंग्रहः॥
मूलम्
देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः। आत्मा सेद्धव्य इति हि ब्रह्म मीमांस्यते बुधैः॥
मूलम्
इन्द्रियस्य तु देवत्वं कारणत्वमुपास्यता। प्राणत्वाद्यं श्रूयतेऽतः स एवात्मेति संसयः॥
मूलम्
एतादृक्संशयोच्छित्त्यै भगवान् बादारायणः। प्रावर्तयत्प्राणपादं द्वितीये लक्षणेऽन्तिमम्॥
मूलम्
नेन्द्रियेष्वनुमानं स्यात् अप्राप्ते शास्त्रमर्थवत्। ज्ञानेन्द्रियाणां क्लृप्तिश्चेन्न किं कर्मेन्द्रियेषु सा॥
मूलम्
करणत्वेनेन्द्रियत्वं दोषदीपाञ्जनादिषु। प्रसज्यते सहायत्वव्यवस्था त्वनियन्त्रिता॥
मूलम्
उद्विग्नो ह्यन्धकारेण क्वचिदेवं ब्रवीत्यपि। किं चक्षुषा ममैतेन दृष्टं दीपेन यन्मया॥
टीका
श्लोक.[508]
मूलम्
अतीन्द्रियस्येन्द्रियस्यासिद्धिसिद्धिविकल्पतः। पक्षाप्रसिद्ध्यादिदोषात् विजृम्भन्ते न युक्तयः॥
मूलम्
शुद्धाहंकृत्युपादानं द्रव्यमिन्द्रियमुच्यते। भूतैराप्यायनं तेषां मनोऽन्नमयताश्रुतेः॥
मूलम्
इन्द्रियाणां भौतिकत्वं कोचिद्वेदान्तिनो विदुः। पञ्चभूतमयत्वं च मनसः प्रतिपेदिरे॥
मूलम्
शाब्दापरोक्षसिद्धान्ते मनो नेन्द्रियमिष्यते। कैश्चिदात्माऽऽपरोक्ष्यार्थं मनः करणमुच्यते॥