मूलम्
मनसो वैभवं प्राहुः संयोगमजयोरपि। अदृष्टान्नियमः सिद्ध्येत् अदृष्टशरणा हि ते॥
मूलम्
ज्ञानस्यायौगपद्यार्थमणुत्वं तार्किका विदुः। दूरस्मृत्युपपत्त्यर्थं वैभवं वैदिका विदुः॥
मूलम्
विकासो वृत्तिभेदो वाऽऽप्यायकप्रचयोऽपि वा। पृथुत्वहेतुः वेगस्तु यौगपद्यभ्रमावहः॥
मूलम्
नैवाभिनिविशन्तेऽन्यप्रकारेषु बुधा इमे।