200 सांख्यमतम्

मूलम्

अथ सांख्यास्त्विन्द्रियाणि विभून्येकादशेति च । प्राहुराहंकारिकाणि वृत्त्या च व्याप्नुवन्त्यपि ॥

मूलम्

ज्ञानकर्मात्मकं चेदं मनोऽन्तःकरणं मतम् । अहंकारश्च बुद्धिश्चाप्यन्तः करणमिष्यते ॥

मूलम्

तथाच त्रिविधा तेषामन्तःकरणकल्पना । आनुमानिकतैतेषां प्रधानादिवदेव हि ॥

मूलम्

सात्त्विकाहंकार एषामुपादानमिति स्थितिः । अहंकारविशेषाः स्युरिन्द्रियाणीति केचन ॥

मूलम्

हैरण्यगर्भा इति हि प्राह सर्वार्थसिद्धिकृत् । कर्मेन्द्रियं राजसं स्यादिति केचन तान्त्रिकाः ॥

मूलम्

प्रतिदेहं जनिध्वंसौ स्यातामस्येति केचन ।