मूलम्
अथ नैयायिकानां स्यादेष सिद्धान्तसंग्रहः ॥
मूलम्
भौतिकानीन्द्रियाणि स्युः पञ्च बाह्यानि देहवत् । न महान्ति च चाणूनि मध्यमानीति निर्णयः ॥
मूलम्
अणु नित्यं द्रव्यमपि मनोऽन्तःकरणं मतम् । तत्र पञ्चभिरप्यक्षैः बोधस्सत्तागुणत्वयोः ॥
टीका
श्लोक.[188]
मूलम्
द्रव्यमाने पुनर्द्वाभ्यां रूपादावेकशः स्थितिः । मनोग्रह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः॥
मूलम्
स मानसीनो जनानामात्माऽप्येतैर्गणैस्सह। अतीन्द्रियाणीन्द्रियाणि सिद्धयन्ति ह्यनुमानतः॥
मूलम्
प्रतिदेहं विभिन्नानि षडेतान्यखिलात्मनाम्। शरीरावयवा एव स्युः कर्मेन्द्रियशब्दिताः॥
मूलम्
शब्देतरोद्भूतगणविशेषानाश्रयश्च सन्। ज्ञानहेतुमनोयोगस्याश्रयो हीन्द्रियाभिधः॥
मूलम्
सर्वाणि प्राप्यकारिणि कारणि यतो धियाम्। संसृष्टं कारकं लोके तत्फलायावकल्पते॥
टीका
न्या. म.[73]
मूलम्
सन्निकर्षस्ततस्सिद्धः सत्तयैवोपकार्यसौ। नानवस्थातिप्रसंगौ स्वभावनियतं जगत्॥
मूलम्
नीरन्ध्रेऽप्यम्बुकाचादौ दृक्प्रभादेः प्रवेशनम्। वस्तुस्वभाववैचित्र्यात् इत्येतत्सर्वसम्मतम्॥
मूलम्
लौकिकोऽलौकिकश्चेति सन्निकर्षो द्विधेष्यते। प्रथमः षड्विधस्तत्र द्वितीयस्त्रिविधो मतः॥
मूलम्
पृथवग्रं चाक्षुषं तेजोऽधिकग्रहणशक्तिमत्। शालिकाचार्यसिद्धान्ते चक्षुर्बाह्येन तेजसा॥
मूलम्
महच्चक्षुर्जनयति गृह्यते तेन चाधिकम्। तथा शाखाचन्द्रमसौर्यौगपद्येन च ग्रहः॥
टीका
किर.[75]
मूलम्
बाह्येन ज्योतिषा चक्षुःज्योतिस्संवलितं सदा । दूरस्थं विपुलं चापि गृह्णातीति विदुः परे ॥