198 अप्राप्यकारित्वम्

मूलम्

यः पञ्चेन्द्रियसिद्धान्तः तत्रापि श्रोत्रचक्षुषी ॥

मूलम्

अप्राप्यकारिणी स्यातामिति सौगतनिर्णयः । आभिमुख्यं च संबन्धोऽयस्कान्तादिवदिष्यते ॥

मूलम्

अनवस्थाऽतिप्रसङ्गौ संबन्धस्य ग्रहेऽग्रहे । प्राप्तेश्च कल्पनाऽन्येषामेषां त्वनुपलब्धितः ॥

मूलम्

प्राप्त्यभावस्सिद्ध एव स्वभावान्नियमः स्थितः । सान्तरं ग्रहणं न स्यात्प्राप्तौ दूरादिदर्शनात् ॥

टीका

न्या. र.[146]

मूलम्

महीमहीधरादीनां महतां चाग्रहो भवेत् । कणभक्षोऽक्षपादाश्च जैमिनिः कपिलस्तथा ॥

मूलम्

सर्वेन्द्रियाणामेते स्युः प्राप्यकारित्ववादिनः । चक्षुश्श्रोत्रेतरेषां तु केचित्ताथागतास्तथा ॥

मूलम्

तत्रापि चक्षुर्भिन्नानां तेषां स्याद्वादिनस्तथा ।