197 शाक्यमतम्

मूलम्

शरीरस्यैवेन्द्रियत्वात् नेन्द्रियं नाम किंचन। इति शाक्यविशेषा हि प्राहुर्लौकायता अपि॥

मूलम्

त्वगेकमेव वा तत्स्यात् मनो वाऽप्येकमेव वा। इति कश्चित्सौगतानां सिद्धान्त इति गम्यते॥

मूलम्

कल्प्यते शक्तिभेदश्चेत् शक्तिरेवेन्द्रियं भवेत्। इत्युक्तं, वरं धर्मिकल्पनाद्धर्मकल्पना॥

मूलम्

शक्तिशक्तिमतोरैक्यं प्रायशस्सर्वसम्मतम्। शक्तिनां नामभेदेन व्यवहारोऽनवस्थितः॥

मूलम्

पुमिन्द्रियं स्त्रीन्द्रियं च द्विधा वेन्द्रियमित्यपि। प्राचीनानां व्यवहृतिः पूर्वाचार्यैरनूदिता॥

टीका

प. म.[3 भ.]

मूलम्

क्षीणानि चक्षुरादीनि रूपादिष्वेव पञ्चसु। न षष्ठमिन्द्रियं द्रव्य्राहकं विद्यते बहिः॥

टीका

न्या. र.[181]

मूलम्

नैकं रूपाद्यभेदो वा दृष्टं चेन्नेन्द्रियेण तत्। अक्षानेकत्ववैयर्थ्यं स्वार्थे भिन्नेऽपि शक्तिमत्॥

टीका

न्या. र.[183]

मूलम्

न सुखादिप्रमेयं वा मनो वाऽस्तीन्द्रियान्तरम्। अनिषेधादुपात्तं चेदन्येन्द्रियमतं वृथा॥

टीका

न्या. ता.[97]

मूलम्

नैकमित्यादिपद्यस्याप्यर्थ एषोऽवधार्यताम्। दर्शनस्पर्शनाभ्यां यद्ग्राह्यं ग्रहकभेदतः॥

मूलम्

रूपादिवत्तद्भिद्येत नोचद्रूपाद्यभेदिता। सामान्यं पञ्चभिर्ग्रह्मं दृष्टं चेत्तदसन्मतम्॥

मूलम्

तथापीन्द्रियसांकर्ये व्यर्था तद्भेदकल्पना। त्वगेकमेवेन्द्रियं स्यात् नैकार्थे नैकशक्तिमत्॥

मूलम्

इत्येवं भिक्षुवाक्यस्य भावो रत्नाकरोदितः। एकेन्द्रियादिवस्तु गौतमेनाप्यनूदितः॥

मूलम्

तद्भेदसाधनं तत्रानात्मसाधनसंगतम्।