मूलम्
अवस्थावादपक्षे तु नैव तस्य प्रसञ्जनम्। इत्यभिप्रेत्य बहुभिः शशिरं पाञ्चभौतिकम्॥
मूलम्
क्षणिकं हेयमित्यादि बहुधा विजुगुप्स्यते। संरम्भस्तु तदत्यन्तक्षिन्ननित्यात्मधीफलः॥
मूलम्
तत्सिद्धिश्च निरागस्य हेतुस्स्यादिति तन्मतम्। क्षणात्मवादे देहात्मवादे तत्सूपपादितम्॥
मूलम्
द्रूष्टृणामिह सर्वेषामास्थाया हि परिक्षयः। परमोद्देश्य इति च सर्वथा सुव्यवस्थितम्॥