मूलम्
प्राग्देहाकृष्टभूतांशसंघसंपत्तिमान् पुमान्। अणुस्संसरतीत्येकैर्लिङ्गदेहो न चेष्यते॥
टीका
स. सि.[1-11]
मूलम्
भूतसूक्ष्मपरिष्वङ्गविषयं शास्त्रमुच्यते। गतिसाधनमेवेदं न चेष्टं भोगसाधनम्॥
मूलम्
आरम्भवादे सांकार्यं जात्यादेः स्थूल इष्यते। उपाधिसंकरन्यायादिति केचन जानते॥
मूलम्
कुर्वद्रूपत्वाख्यजातिवादभङ्गाय संकरः। दोषोऽभ्युपगतः प्राज्ञैरिति तत्त्वविदो विदुः॥
टीका
न्या. कु.[1 स्त.]