194 औपनिषदमतम्

मूलम्

तथौपनिषदैः कैश्चिल्लिङ्गदेहो मतो यथा। पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्॥

टीका

वेदान्तपरिभाषा.[ ]

मूलम्

अपञ्चीक़ृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम्। परं चाप्यपरं चेति द्विधा तत्परिकीर्तितम्॥

मूलम्

परं हिरण्यगर्भीयं तन्महत्तत्त्वशब्दितम्। अपरं त्वस्मदादीनां सोऽहंकार इतीर्यते॥

मूलम्

पञ्चीकृतेभ्यो भूतेभ्यश्चान्येषां सृष्टिरिष्यते। लिङ्गं मतं भेदविदां भेदाभेदविदामपि॥