मूलम्
अथ कापिलससिद्धान्ते शरीरपरिकल्पना । विस्तरेणोदिता तत्र सारांशोऽयं निरूप्यते ॥
टीका
सा. का.[39]
मूलम्
विशेषाः स्थूलनामानः पञ्च स्युः भूतलक्षणाः । तन्मात्रलक्षणाः पञ्चविशेषास्सूक्ष्मलक्षणाः ॥
मूलम्
विशेषाः त्रिविधाः ज्ञेयाः सूक्ष्मदेहोऽत्र चादिमः । स्थूलदेहो द्वितीयः स्यात् प्रभूतस्तदनन्तरः ॥
मूलम्
आ सर्गात्प्रतिसर्गान्तं याः पुंसां सन्ति मूर्तयः । बुद्ध्यहंकारतन्मात्रेन्द्रियसंहतिलक्षणाः ॥
मूलम्
ते सूक्ष्मदेहाः नियताः लिङ्गाख्याः प्रथमा इमे । षाट्कोशिकाः स्थूलदेहाः ये मातापितृसंभवाः ॥
मूलम्
निवर्तन्ते प्रजायन्ते प्रभूताः स्थावरा मताः । घटादीनां निवेशोऽत्रेत्येवं त्रैविध्यमीरितम्॥
मूलम्
इति सांख्योक्तसिद्धान्तं प्राय इच्छन्ति सूरयः। नैयायिकादयो नोपयन्तीदं तत्त्वविप्लवात्॥
मूलम्
विभ्वात्मवादे गत्युक्तिस्सर्वत्रैवौपचारिकी। जन्मान्तरोपपत्तिश्च स्थितस्यैव भविष्यति॥
मूलम्
कुमारिलश्चात्मवादे मीमांसाश्लोकवार्तिके। अन्तराभवदेहस्तु निषिद्धो विन्ध्यावासिना॥
मूलम्
तदस्तित्वे प्रमाणं हि न किञ्चिदिति पद्यतः। विन्ध्यवासिमतं प्राह सांख्यस्स्याद्विन्ध्यवास्यसौ॥