मूलम्
शब्दब्रह्मेति यच्चेदं शास्त्रं वेदाख्यमुच्यते । तदप्यधिष्ठितं सर्वं एकेन परमात्मना ॥
मूलम्
तथर्ग्वेदादयो देहाः प्रोक्ता येऽपि पृथक्पृथक् । भोग्यत्वेनात्मनां तेऽपि चैतन्यानुगतास्सदा ॥
मूलम्
तेषां चान्तर्गतेच्छानां वाक्यार्थप्रतिपादने । विवक्षा वाऽविवक्षा वा ज्ञायते शब्दशक्तितः ॥
मूलम्
विधिशक्त्या गृहीतं यत्तत्सर्वं हि विवक्षितम् । तयैव तु परित्यक्तं व्याख्येयमविवक्षितम् ॥
मूलम्
शब्दब्रह्मात्मनोऽप्येवं सर्ववेदानुसारिणः । विवक्षा वाऽविवक्षा वा वक्तव्या विधिशाक्तितः ॥
मूलम्
अनादिनिधनेऽप्येवं वेदे वेदार्थगोचरे । व्याख्यानं मुख्यवृत्त्याऽपि स्य़ाद्विवक्षाऽविवक्षयोः ॥