मूलम्
अत्रेदमवधातव्यं कुमारिलमुखोद्गतम् । ग्रहैकत्वाधिकरणतन्त्रवार्तिकसंगतम् ॥
टीका
तन्त्र.[3-1-7]
मूलम्
ऋग्वेदादिसमूहेषु क्षेत्रज्ञा ये प्रतिष्ठिताः। तेषां वाऽयमभिप्रायः स्याद्विवक्षाऽविवक्षयोः॥
मूलम्
महाभौतिकदेहस्थाः यथाऽऽत्मानस्सचेतनाः। किंचिदर्थं विवक्षन्ति न विवक्षन्ति चापरम्॥
मूलम्
तेषामन्तर्गताऽपीच्छा तद्वाक्यार्थाविचारिभिः। ज्ञायते शब्दशक्त्यैव स्फुरन्तीव बहिःस्थिता॥
मूलम्
देहभेदप्रकाराश्च कर्मशक्तिवशानुगाः। प्रकृत्यारम्भवैचित्र्यात् दृश्यन्ते परमात्मनाम्॥
मूलम्
पार्थिवावयवप्रायाः शेषतोयाद्यनुग्रहात्। जरायुजादयो देहाः दृष्टा भवि चतुर्विधाः॥
मूलम्
भूतान्तरानुबद्धेन तोयेनैव विनिर्मिताः। श्रूयन्ते वारुणे लोके देहाः स्वच्छाङ्गलक्षणाः॥
मूलम्
अन्तरिक्षे च बहवः प्राणिनो वातनिर्मितैः। भ्रमन्ति लघुभिस्सूक्ष्मैः देहैर्भूम्याद्यनुग्रहात्॥
मूलम्
स्वर्लोके तैजसप्रायाः देहाः शुद्धप्रभान्विताः। आप्यायन्ते विकीर्णेन भानवीयेन तेजसा॥
मूलम्
ये हि स्वर्गं यन्ति लोकं जनाः पुण्यकृतस्त्विह। ज्योतींषि तेषामेतानि नक्षत्राणीति वै श्रुतिः॥
मूलम्
तथा व्योमशरीरोऽपि परमात्मा श्रुतौ श्रुतः । इज्यते वारिणा नित्यं यः खं ब्रह्मेति चोदितः ॥
मूलम्
रूपस्पर्शादयो येऽपि महाभूतगुणाः स्थिताः। प्रत्येकमात्मनां तेपि देहास्संभोगदेतवः॥