190 जरन्मीमांसकमतम्

मूलम्

पार्थिवा एव देहाः स्युः ते सर्वे योनिजा मताः। देवाश्च देवलोकाश्च न प्रमाणपदे स्थिताः॥

टीका

प. म.[17 भ]

मूलम्

विग्रहो हविरादानं युगपत्कर्मसन्निधिः। तृप्तिः फलप्रदानं च देवतानां न विद्यते॥

मूलम्

ततश्चैतन्यरहितदेवतावादिनस्त्विमे। इन्द्रादिशब्दरूपास्ताः ते शब्दाः स्वाभिधायिनः॥

मूलम्

सर्वं शब्दात्मकमिति हर्यादिषु वदत्स्विह। शब्दात्मदैवतविदां कोऽपराधोऽतिरिच्यते॥