मूलम्
शरीरस्य स्वरूपं हि विज्ञेयं सर्ववादिभिः। तद्धेयं क्षणिकं चात्मभ्रमकारणमुच्यते॥
मूलम्
अनुकूलो हि सर्वेषामात्मा,तादात्म्यविभ्रमात्। आनुकूल्यधिया प्रीतिर्देहे यादृशि तादृशि॥
मूलम्
चेष्टेन्द्रियार्थाश्रयत्वं शरीरत्वं निरुच्यते। इष्टप्राप्त्याद्यनुगुणा क्रिया चेष्टेति कथ्यते॥
टीका
न्या. सू.[1-1-11]
मूलम्
आधेयत्वं विधेयत्वं शेषत्वं नियतं तु यत्। शरीरशब्दप्रवृत्तिनिमित्तमिति कैश्चन॥
टीका
श्रीभा.[2-1-9]
मूलम्
वायवीयं तैजसं च जलीयं पार्थिवं तथा। चतुर्विधं शरीरं स्यात् कारणं च चतुर्विधम्॥
मूलम्
भवेदुपष्टम्भकं तु प्रत्येतमितरत्रयम्। आरम्भकं सजातीयमन्यथा जातिसंकरः॥
मूलम्
तच्छरीरं द्विधं ज्ञेयं मानसं यौनमित्यपि। देवर्ष्याद्या मानासास्स्युः योनिजास्त्वितरे मताः॥
मूलम्
वाय्वादिषु हि लोकेषु तेते देहा व्यवस्थिताः। इति तार्किकसिद्धान्तः तत्र मीमांसका विदुः॥