मूलम्
सृष्टिप्रलयसंतानं शाबरा न प्रपेदिरे । न कदाचिज्जगच्चैतदनीदृगिति तन्मतम् ॥
मूलम्
केचित्पौराणिकाः कल्पमेकमेव विदुः ततः । तेषामेका सृष्टिरिष्टा प्रलयोऽप्येक एव हि ॥
टीका
श्लोक.[650]
मूलम्
एत एव तु कल्पान्तजीववादिन ईरिताः । परे सर्वे सृष्टिभङ्गप्रवाहानादिवादिनः ॥
मूलम्
तस्मात्कारणवाक्यानि सर्वासूपनिषत्स्वपि । लयपूर्वां सृष्टिमाहुः सृष्टिपूर्वो लयो यतः ॥
मूलम्
तत्र वैशेषिकाः सर्वजीवानां मुक्तिवादिनः । ते वै मताः सृष्टिभङ्गप्रवाहस्यान्तवादिनः ॥
मूलम्
ये पुनर्नित्यसंसारवादिवेदान्तिनो बुधाः । तेषां सृष्टिप्रवाहोऽयमनन्तोऽनादिरप्यसौ ॥
टीका
स. सि.[2-27]
मूलम्
नित्यसंसार्यभावेऽपि जीवानन्त्यवचोबलात् । लीलाभूतिर्भगवतोऽनन्तेति सुधियो विदुः ॥