मूलम् जगत्कारणमेवेदं सर्वैर्जिज्ञास्यते ततः । सधर्मकांश्च साधारान् पीलून् वैशेषिका विदुः ॥ मूलम् तेभ्योऽपि च परां सूक्ष्मां प्रकृतिं कापिला विदुः । ततोऽपि परमं सूक्ष्मं ब्रह्मौपनिषदा विदुः ॥