186 आगमपक्षः

मूलम्

शास्त्रैकविषयत्वे च परमाणोर्न सिद्ध्यति । नित्यस्पर्शादियोगित्वं भूतानां विकृतित्वतः ॥

मूलम्

निर्धर्मका निराधारा प्रकृतिर्यद्वदिष्यते । निर्धर्मका निराधारा अणवः बौद्धसम्मताः ॥

मूलम्

आगमालम्बने कार्यं कारणे प्रतितिष्ठति । अन्ततः प्रकृतिस्साऽपि परे ब्रह्मणि तिष्ठति ॥

मूलम्

तदपि स्वे महिम्नीति यदि वा नेति चेत्यपि । श्रूयतेऽतो निराधारं सर्वाधारं परं पदम् ॥

मूलम्

वाचक्रवीयाज्ञवल्क्यसंवादोऽप्ययमेव हि । बृहदारण्यकेऽधीतः विचारोऽसौ महान् ततः ॥