185 अविश्रान्तिपक्षः

मूलम्

अनन्तावयवत्वं चाप्यणोरिच्छन्ति केचन । विभज्यमाने नाभावपरिशेषः प्रसज्यते ॥

टीका

स. सि.[1-19]

मूलम्

मेरुसर्षपवैधर्म्यं देशव्याप्त्या न संख्यया । व्यक्त्यानन्त्येऽपि जात्योस्तां परताऽपरते यथा ॥

मूलम्

अण्वंशानामनन्तत्वे गन्तृणां तदतिक्रमः । कदाऽपि न स्यात्, किं न स्याद्वेगातिशयवैभवात् ॥

मूलम्

द्युमणेरातपस्सर्पन्नुदयाद्रिशिखामणेः । तत्क्षणं किं न निर्भाति पश्चिमाद्रिशिखण्डकः ॥

मूलम्

नन्वनन्तावयवता मूर्तैरवयवैर्मिथः । अन्तरं त्वप्रयच्छद्भिः सर्वदिग्व्याप्तिकारिणी ॥

मूलम्

एकेन सर्षपेणैव पूर्येत सकलं जगत् । अतोऽनवयवाः केचित्स्वीकर्तव्याः किलेति चेत् ॥

मूलम्

अनन्तावयवत्वे तु सर्वदिग्व्याप्तिरित्यसत् । तावद्देशेऽपि सौक्ष्म्येणानन्तावयवसंभवात् ॥

मूलम्

सर्वापकृष्टः संघातस्सत्त्वादेरणुरित्यपि । सांख्यैरुक्तं निरंशाऽपि प्रकृतिश्चेति भाषितम् ॥

मूलम्

निरंशा प्रकृतिस्सैव परिणामविभागिनी । अनन्तांशात्मिका चेति विरुद्धं सांख्यदर्शनम् ॥