मूलम्
अतश्च तार्किका नव्या नित्ये महति चाक्षुषे । त्रुटौ विश्रममिच्छन्ति न ह्रस्वपरिमण्डले ॥
मूलम्
परमाणुत्रयेणैव त्र्यणुकारम्भ इष्यते । गवाक्षरन्ध्रदृष्टं वा लाघवात् द्व्यणुकं विदुः ॥
मूलम्
जालसूर्यमरीचिस्थं यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरोणुरित् स्मृतिः ॥
टीका
याज्ञ.[1-361]
मूलम्
त्रसरेणुपदं मण्डपादिवद्रूढमिष्यते । त्रिभिश्च सहितो रेणुस्त्रसरेणुरितीतरे ॥