मूलम्
अत्रोतरेषामाक्षेपसारांशोऽयं प्रदर्श्यते । स्वांशैस्संयुज्यावयवाः प्रारभन्तेऽतिरेकिणम् ॥
टीका
स. सि.[1-18]
मूलम्
इति वादो निर्विघातः द्व्यणुकावधि संभवेत् । ततोऽणवो निरंशाश्चेत् संयोगस्तत्र दुर्घटः ॥
मूलम्
सांशाश्चेदविशेषस्स्यान्मेरुसर्षपयोरिति । षट्केन युगपद्योगात्परमाणोष्षडंशता ॥
मूलम्
षण्णां समानदेशत्वे पिण्डस्स्यादणुमात्रकः । इति पद्यं विश्रुतं हि यन्माध्यमिकशासनम् ॥
मूलम्
निरंशाऽनेकविषया बुद्धिर्नात्र निदर्शनम् । अंशानपेक्षस्संयोगस्तव नारम्भकः क्वचित् ॥
मूलम्
मूर्तेर्विभूनां संयोगोऽप्यत्र न स्यान्निदर्शनम् । अनिच्छतां विभुद्रव्यं, इच्छतामयमाशयः ॥
मूलम्
प्रवर्त्स्यामो यदि वयं संयोगगुणनिह्नवे । तदा प्रदर्श्येत विभुप्रतिबन्द्यणुषु त्वया ॥
मूलम्
किंत्वारम्भकसंयोगः प्रदेशनियतो मतः । अन्यत्राङ्गीकृतश्चेति कल्प्येऽप्येष प्रसज्यते ॥
मूलम्
उपलम्भानुसारेण वस्तुसत्ता व्यवस्थिता । तस्मात्त्रयणुकविश्रान्तिर्वरमित्याह वैदिकः ॥