182 परिमाणचतुष्टयम्

मूलम्

परमाणुरणुह्रस्वं द्व्यणुकं दीर्घमुच्यते । त्र्यणुकं तु महत्तस्मात्परिणामचतुष्टयम् ॥

टीका

न्या. म.[503]

मूलम्

महत्त्वं षट्पार्श्ववत्त्वं त्रिभिर्दीर्घैस्तदुद्भवः । तस्मादुत्पद्यते सर्वं त्र्यणुकं द्व्यणुकैस्त्रिभिः ॥

मूलम्

ततश्च क्रमसामान्ये मानं खण्डनिदर्शनम् । मानं सङ्ख्र्याविशेषे तु नास्तीत्यारम्भ इष्यते ॥