मूलम्
तत्रातिरिक्तावयविवादिभिः किल तार्किकैः ॥
मूलम्
प्रथमं संघटेते द्वौ परमाणू ततस्त्रिभिः । आरभ्यते च त्र्यणुकं द्व्यणुकैरिति कथ्यते ॥
मूलम्
परस्परानवष्टब्धदेशस्थितिरुपेयते । अण्वोद्वर्यणुकयोर्वापि स देशो व्योमसंज्ञितः ॥
मूलम्
प्रभामण्डलमेवैतदिति केचन जानते । तस्याप्याश्रयदेशोऽन्यो वक्तव्य इति साम्प्रतम् ॥
मूलम्
बहुत्वसंख्यया दृष्टं महात्त्वं हेतुनिष्ठया । परोक्षत्वापरोक्षत्वसिद्धिस्तद्धेतुसाध्ययोः ॥