179 नित्यानित्यविचारः

मूलम्

अनित्यं सकलं वस्तु क्षणत्वाच्छून्यमित्यपि । दुःखं चेति हि सिद्धान्तः सौगतानां व्यवस्थितः ॥

मूलम्

कार्यकारणयोरैक्यं तथैक्यं धर्मधर्मिणोः । अतो नित्यैकान्तवादः सांख्यानामिति निर्णयः ॥

मूलम्

वैशेषिकादयस्तत्र नित्यानित्यत्ववादिनः । क्षितिवार्यग्निमरुतां नित्यास्स्युः परमाणवः ॥

मूलम्

व्योमकालदिगात्मानः नित्या एवं मनांस्यपि । अन्यानि कार्यद्रव्याद्यान्यनित्यानीति निर्णयः ॥

मूलम्

नित्यानित्यविभागः प्राक्स्थितो वेदान्तिनां मते । परमाणुस्वरूपे तु विचारोऽयं विमृश्यताम् ॥