177 अव्याकृताकाशः

मूलम्

अव्याकृतो व्याकृतश्च स चाकाशो द्विधा मतः । प्रधानमेव प्रथम इति केचन सूरयः ॥

मूलम्

कैश्चित्तु तद्विष्णुपदं परमं पदमिष्यते । पञ्चभूतान्तर्गतो यः, स द्वितीयोऽभिधीयते ॥