मूलम्
प्रत्यक्षसिद्ध आकाश इति वेदविदो विदुः। विधिरूपतया सर्वलोकसाक्षिकतादिना॥
मूलम्
भावान्तराभाववादे विवादो नैव विद्यते। अतिरिक्तभाववादे युक्तिरेषा निरूपिता॥
मूलम्
न तावदत्रागमिकी प्रतीतिर्नाभसी भवेत्। आगमस्यानभिज्ञानामपि तद्बुद्धिदर्शनात्॥
मूलम्
नाप्यानुमानिकी सा स्यात् तत्रानधिकृतास्तु ये । अबलाबालगोपानां तेषामप्यस्ति तन्मतिः ॥
मूलम्
प्रतीयतेऽयमाकाशः यदैवोन्मीलनं दृशः । प्रतीत्यभावे गन्तृणां कूपादिपतनं ध्रुवम् ॥
मूलम्
इह पक्षी नेह पक्षीत्येवं जानन्ति लौकिकाः । एतदालम्बनतया वस्तु किंचित्प्रसिध्यति ॥
मूलम्
कल्पितालम्बनं केचिदालोकालम्बनं परे । ध्वान्तालम्बनमेकेऽन्ये तन्निरालम्बनं विदुः ॥
मूलम्
तत्रापि कल्पितादीनां स्यादेवाधारकल्पना । विधिर्निषेधो निरधिकरणो नेति केचन ॥
मूलम्
तथात्वे चाद्वैतवादः शून्यवादोऽपि वा ध्रुवः । तस्मादध्यक्षसंयोगः परिशेषाद्व्यवस्थितः ॥
मूलम्
तस्मादङ्गुळिनिर्देशपूर्वं व्यवहरत्यसौ । परीक्षको लोकिकश्च निर्बाधं सप्रमाणकम् ॥
मूलम्
नाभावो निस्स्वाभावस्स्यात् स्वस्वभावतया स्थितेः । स्वविरुद्धस्वभावाच्चेत् निःस्वभावोऽखिलो भवेत् ॥
मूलम्
यदि चावरणाभावोऽत्रात्यन्ताभावलक्षणः । तदाधारतया कश्चिदस्त्येव मतिगोचरः ॥
मूलम्
प्रध्वंसप्रागभावौ तु सस्तु तेषु न सिद्ध्यतः । तथाऽऽवरणभेदस्तु तस्य सत्त्वेऽपि सिद्ध्यति ॥