175 दिगाकाशवादः

मूलम्

परस्परानवष्टब्धप्रदेशस्थस्वरूपयोः। परमाणवोश्च संयोगो विना देशं न सिध्यति॥

मूलम्

दिक्तत्वेऽत्रान्तरिक्षान्तर्भावं केचिद्विदुस्ततः। अतिरिक्तत्वपक्षे तु सोऽण्वोर्देशो भवेदपि॥