171 अनुमेयपक्षः

मूलम्

समवायितया शब्दस्याकाशः परिशेषतः। अनुमानात्सिद्ध्यतीति प्राहुर्वैशेषिकादयः॥

टीका

वै. सू.[2-1-27]

मूलम्

स च नित्यो विभुश्चैक इति लाघवयुक्तितः। उपाधिभेदात्कार्याणामुपष्टम्भक इष्यते॥

मूलम्

नेश्वरादिरिच्यन्ते दिक्खालागगनानि तु। इति लाघवविज्ञानाः प्राहुर्ये नव्यतार्किकाः॥