170 आवरणाभावपक्षः

मूलम्

चत्वार्येव हि भूतानि नाकाशमतिरिच्यते। व्योमादिशब्दाः व्यामोहमात्रनिघ्ना इतीरिताः॥

टीका

भा. भा[196]

मूलम्

शून्यधातौ खपुष्पादौ निस्तत्त्वेऽप्यस्ति वाचकः। योऽयमावरणाभावो निस्स्वभावश्च संमतः॥

मूलम्

अवकाशोऽयमाकाश इति चार्वाकसौगताः। नञुपश्लेषविरहादसद्रूपतिरस्कृतिः॥

मूलम्

अपोहजातिवादे च यथा वस्तुतयैव धीः। वासनावशतस्तद्वत् परीक्षायां तु सून्यता॥

मूलम्

तलत्वं मलिनत्वं च विपुलत्वं तथाऽल्पता। बालातपादिसंनिध्येनारुण्याद्यपि दृश्यते॥

मूलम्

केशोण्ड्रविभ्रमनिभाः निरधिष्ठानविभ्रमाः। दुःखाभावे सुखाध्यासः स्यात्सर्वजनसाक्षिकः॥

मूलम्

तेजोऽभावे च नीलादिरध्यस्तो न्यायाविन्मतः। अतीतेषु च वर्णेषु क्रमस्संख्या च दृश्यते॥

मूलम्

अतीतानागतादौ च प्राकट्यं वित्तिवेद्यता। स्मृतेः प्रमोषो नीलादिवस्तूनामिति केचन॥