169 कालाणुवादः

मूलम्

अथ पातञ्जलाः कालं महान्तं नोपयन्ति ते। क्षणैरेव मुहूर्तादिव्यवहारं प्रचक्षते॥

टीका

पा. भा.[3-51]

मूलम्

कालेन यावता पूर्वं देशं जह्याच्चलन् अणुः। संपद्येतोत्तरं देशं स कालः क्षण उच्यते॥

मूलम्

क्षणः कालकला पूर्वापरभागविवर्जिता। स एव वस्तुतः कालः क्रमस्याप्यवलम्बनम्॥

मूलम्

मुहूर्ताहोरात्ररूपः बुद्धिनिर्माणलक्षणः। वस्तुशून्यो लौकिकानां वस्त्वात्मेवावभासते॥

मूलम्

क्षणतत्क्रमयोर्नास्ति समाहारो न वस्तुतः। तस्माद्बुद्धिसमाहारः मुहूर्तादिरिति स्थितम्॥

मूलम्

अनेन चैव न्यायेन संख्यां द्वित्वादिलक्षणाम्। एकत्वेनान्यथासिद्धां कुर्वन्ति सुधियोऽपरे॥

मूलम्

आर्हतानामेवमेव कालोऽणूनां समुच्चयः। केनैव भूतभाव्यादिव्यवहारो निरूपितः॥

मूलम्

तथा महाकालमेके खण्डमेकेऽथचोभयम्। इति त्रिधा कालसत्त्वे सिद्धान्ता इति निर्णयः॥