मूलम्
कौमारिलाश्श्रावणत्वमाहुर्दिक्कालयोरपि। कालश्चैको विभुर्नित्यः प्रविभक्तोऽधिगम्यते॥
मूलम्
वर्णवत् सर्वभावेषु व्यज्यते केनचिक्त्वाचित्। आनुपूर्वी च वर्णानां ह्रस्वदीर्घप्लुताश्च ये॥
मूलम्
कालस्य प्रविभागास्ते जायन्ते ध्वन्युपाधयः। तस्मात्सर्वेन्द्रियग्रह्यः सत्तावत्काल इष्यते॥