167 उपाधयः

मूलम्

कालोपाधिविशेषाश्च मञ्जरीप्रकटीकृताः। संगृह्यन्ते सुमनसां स्वान्तविक्षेपशान्तये॥

मूलम्

चञ्च्वग्रचुम्बिताताम्रचूताङ्कुरकदम्बकैः। कथ्यते कोकिलैरेव मधुः मधुरकूजितैः॥

मूलम्

दिवाकरकरालातनिर्दग्धवीरुधः। मार्गास्समल्लिकामोदा भवन्ति ग्रीष्मशंसिनः॥

मूलम्

शिखण्डमण्डनारब्धोद्दण्डताण्डवडम्हरैः। प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः॥

मूलम्

मौक्तिकाकारविस्तारिताकानिकरचित्रितम्। शरत्पिशुमतां याति यमुनाम्भोमिभं मभः॥

मूलम्

आयामियामिनीभोगसफलाभोगविभ्रमाः। हेमन्तमाभिनन्दन्ति सोष्माणस्तरुणीस्तनाः॥

मूलम्

आस्कन्दनदलत्कुन्दकलिकोत्करदन्तुराः। वदन्ति शिशिरं वाताः तुषारकणककर्कशाः॥

मूलम्

तस्मादेकोऽप्ययं कालं क्रियाभेदाद्विभिद्यते। एतेन सदृशन्यायात् मन्तव्या दिक्समर्थिता॥