165 परिणामी

मूलम्

नित्योऽप्येकोऽप्यसौ कालः द्रव्यत्वाद्भिदुरो मतः। अवस्थाभेदतः ते चोपाधिसंबन्धलक्षणाः॥

टीका

वे. सं.[68]

मूलम्

स्वयं विक्रियतेऽजस्त्रं स क्षणाद्यात्मनेत्यपि। यद्यादवप्रताशोक्तं तदप्यनुमतं बुधैः॥

मूलम्

अत एवच मासादेः स्याद्विवक्षानुसारतः। आद्यन्तमध्यमोत्पत्तिक्षणप्रभृतिकल्पना॥

मूलम्

क्षणादिभेदाभावे तु कथं वा स्यादुपाधिभिः। भेदस्तेषां कालमात्रे संबन्धान्निर्विशेषणे॥

मूलम्

विकारपक्षे कृत्स्नैकदेशयोगविकल्पना। परिहार्या ह्याश्रयैकदेशवृत्तिगुणादिवत्॥

मूलम्

उपाधिसंबन्धमात्रपक्षे॥पि न विशिष्यते। परिहारोऽयमिति च प्राहुर्लाघवदृष्ट्यः॥

मूलम्

स्पन्दसंततिसिद्ध्यर्थं कालस्याणुत्वकल्पनम्। आशावसनसिद्धान्ते युक्तिचातुर्यजृम्भितम्॥

मूलम्

क्रियासंततिवत्काले परिणामपरंपरा। किं न स्यात्स्वापकर्षाद्यैः परत्वादिप्रसाधिका॥