मूलम्
इति कालानुमेयत्ववादिनां रीतिरीरीता । अथ तत्प्रत्यक्षवादिवैदिकानां मतिस्त्वियम् ॥
टीका
स. सि.[1-66]
मूलम्
कालोऽनादिरनन्तश्च प्रत्यक्षश्चेति सम्मतः । विशेषणतया कार्यप्रत्यये प्रतिभासनात् ॥
मूलम्
कालोपश्लिष्टवेषेण ह्यभूदस्तिभविष्यतीन् । प्रयुञ्जतेऽर्थेभेदेषु सदा चास्तिमनेहसः ॥
मूलम्
तस्मात्सर्वेन्द्रियग्राह्य इति तत्त्वविदां मतम्। सर्वेन्द्रियज्ञानवादो यथा सत्तागुणत्वयोः॥
मूलम्
कालांशस्यानुमेयत्वे पदार्थेऽपि प्रसज्यते। तदा सौत्रान्तिकादीनां कोऽपराधोऽतिरिच्यते॥
मूलम्
कालानुमेयानुवादे तु पामराणामधोगतिः। कालानुमा चोक्तरीत्या सर्वदा न विपश्चिताम्॥
मूलम्
क्रमेण युगवत् क्षिप्रं चिरात्कृतमितीदृशाः। प्रत्यया नावकल्पन्ते कार्यमात्रावलम्बनाः॥
मूलम्
अरूपो नन्वयं कालः कथं गृह्येत चक्षुषा। रूपमेव तवारूपं कथं गृह्येत चक्षुषा॥
मूलम्
कथं वा रूपवन्तो॥पि परोक्षाः परमाणवः। तस्मात्प्रतीतिरन्वेष्या किं निमित्तपरिक्षया॥
मूलम्
नचानुद्घाटिताक्षस्य चिरादिप्रत्ययोदयः। तद्भावानुविधानेन कालस्स्यादेव चाक्षुषः॥
मूलम्
एवं गुरु द्रव्यमिति प्रत्ययात्तदपीदृशम्। पूर्वापरप्रत्ययेन दिशोऽप्यध्यक्षतां विदुः॥