मूलम्
कालतो देशतो वाऽपि व्यतिरेकस्य चाग्रहात् । कथं च नित्यस्य विभोः कालादेर्हेतुतेति चेत् ॥
मूलम्
धर्मिग्राहकमानेन कारणत्वमिहेष्यते । क्वचिल्लोकोपदोशेनाप्यस्ति कारणताग्रहः ॥
मूलम्
कारणत्वं तु नियतप्राग्वृत्तित्वं ननूच्यते । अस्मिन् सत्येवेदमिति नियमः सुग्रहः ॥
मूलम्
प्रसंगतोऽपि नियमसिद्धिस्स्यादिह तद्यथा । यद्येतन्न भवेत्सर्वं नोत्पद्येत ततस्त्विदम् ॥
मूलम्
सर्वोत्पत्तिनिमित्तं स्यादित्यत्रास्ति प्रसंजनम् । इदं यत्र यदा नास्ति तत्र तदाऽखिलम् ॥
मूलम्
इत्याकारस्तु नियमः नहि तत्र विवक्षितः । अतः कालस्सर्वहेतुरित्युक्तिर्न विरोत्स्यते ॥